(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

05 उद्योगपर्व (196) Mahabarataham


॥ श्रीः ॥
5.166. अध्यायः 166
Mahabharata - Udyoga Parva - Chapter Topics
भीष्मेण दुर्योधनसेनायां रथातिरथसंख्यानम् ॥ 1 ॥


Mahabharata - Udyoga Parva - Chapter Text

5-166-0(37597)
भीष्म उवाच। 5-166-0x(3870)
सुदक्षिणस्तु काम्भोजो रथ एकगुणो मतः।
तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः ॥ 5-166-1(37598)
एतस्य रथसिंहस्य तवार्थे राजसत्तम।
पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि ॥ 5-166-2(37599)
एतस्य रथवंशे हि तिग्मवेगप्रहारिणः ।
काम्भोजानां महाराज शलभानामिवायतिः ॥ 5-166-3(37600)
नीलो माहिष्यतीवासी नीलवर्मा रथस्तव।
रथवंशेन कदनं शत्रूणां वै करिष्यति॥ 5-166-4(37601)
कृतवैरः पुरा चैव सहदेवेन मारिष।
योत्स्यते सततं राजंस्तवार्थे कुरुनन्दन ॥ 5-166-5(37602)
विन्दानुविन्दावावन्त्यौ संमतौ रथसत्तमौ ।
कृतिनौ समरे तात दृढवीर्यपराक्रमौ ॥ 5-166-6(37603)
एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः।
गदाप्रासासिनाराचैस्तोमरैश्च करच्यतैः ॥ 5-166-7(37604)
युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ ।
यूथमध्ये महाराज विचरन्तौ कृतान्तवत् ॥ 5-166-8(37605)
त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम।
कृतवैराश्च पार्थैस्ते विराटनगरे तदा ॥ 5-166-9(37606)
मकरा इव राजेन्द्र समुद्धततरङ्गिणीम् ।
गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनी ॥ 5-166-10(37607)
ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम्।
एते योत्स्यन्ति सङ्ग्रामे संस्मरन्तः पुराकृतमक् ॥ 5-166-11(37608)
व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह।
दिशो विजयता राजञ्श्वेतवाहेन भारत ॥ 5-166-12(37609)
ते हनिष्यन्ति पार्थानां तानासाद्य महारथान्।
वरान्वरान्महेष्वासान्क्षत्रियाणां धुरंधरान् ॥ 5-166-13(37610)
लक्ष्णणस्तव पुत्रश्च तथा दुःशासनस्य च।
उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वपलायिनौ ॥ 5-166-14(37611)
तरुणौ सुकुमारौ च राजपुत्रौ रतस्विनौ ।
युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः ॥ 5-166-15(37612)
रथौ तौ कुरुशार्दूल मतौ मे रथसत्तमौ ।
क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः ॥ 5-166-16(37613)
दण्डधारो महाराज रथ एको नरर्षभ ।
योत्स्यते तव सङ्ग्रामे स्वेन सैन्येन पालितः ॥ 5-166-17(37614)
बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः ।
रथो मम मतस्तात महावेगपराक्रमः ॥ 5-166-18(37615)
एष योत्स्यति सङ्ग्रामे स्वान्बन्धून्संप्रहर्षयन् ।
उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः ॥ 5-166-19(37616)
कृपः शारद्वतो रजन्रथयूथपयूथपः।
प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव ॥ 5-166-20(37617)
गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः।
कार्तिकेय इवाजयः शरस्तम्बात्सुतोऽभवत् ॥ 5-166-21(37618)
एष सेनाः सुबहुला विविधायुधकार्मुकाः ।
अग्निवत्समरे तात चरिष्यति विनिर्दहन् ॥ ॥ 5-166-22(37619)

इति श्रीमन्महाभारते उद्योगपर्वणि रथातिरथसंख्यानपर्वणि षट्षट्यधिकशततमोऽध्यायः ॥

Mahabharata - Udyoga Parva - Chapter Footnotes
5-166-10 समुद्धततरङ्गिणीं उच्छ्रितपताकां सेनां उच्छ्रिततरङ्गवतीं गङ्गां ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.